(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.14. अध्यायः 014
Mahabharata - Bhishma Parva - Chapter Topics
धृतराष्ट्रेण भीष्महननश्रवणात्परिशोचनपूर्वकं संजयंप्रति विस्तरेण भीष्मादियुद्धवर्णनचोदना ॥ 1 ॥


Mahabharata - Bhishma Parva - Chapter Text

धृतराष्ट्र उवाच। 6-14-0x(3989)(39134)
कथं कुरूणामृषभो हतो भीष्मः शिखण्डिना।
कथं रथार्त्स न्यपतित्पिता मे वासवोपमः ॥ 6-14-1(39135)
कथमाचक्ष्व मे योधा हीना भीष्मेण संजय ।
बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा ॥ 6-14-2(39136)
तस्मिन्हते महाप्राज्ञे महेष्वासे महाबले ।
महासत्वे नरव्याघ्रे किमु आसीन्मनस्तव ॥ 6-14-3(39137)
आर्तिं परामाविशति मनः शंससि मे हतम् ।
कुरूणामृषभं वीरमकम्पं पुरुषर्षभम् ॥ 6-14-4(39138)
के तं यान्तमनुप्राप्ताः के वास्यसन्पुरोगमाः।
केऽतिष्ठन्के न्यवर्तन्त केऽन्ववर्तन्त सञ्जय ॥ 6-14-5(39139)
के शूरा रथशार्दूलमद्भुतं क्षत्रियर्षभम् ।
तथाऽनीकं गाहमानं सहसा पृष्ठतोऽन्वयुः ॥ 6-14-6(39140)
यस्तमोर्क इवापोहन्परसैन्यममित्रहा ।
सहस्ररश्मिप्रतिमः परेषां भयमादधत् ॥ 6-14-7(39141)
अकरोद्दुष्करं कर्म रणे पाण्डुसुतेषु यः ।
ग्रसमानमनीकानि य एनं पर्यवारयन् ॥ 6-14-8(39142)
कृतिनं तं दुराधर्षं सञ्जयास्य त्वमन्तिके ।
कथं शान्तनवं युद्धे पाण्डवाः प्रत्यवारयन् ॥ 6-14-9(39143)
निकृन्तन्तमनीकानि शरदंष्ट्रं मनस्विनम् ।
चापव्यात्ताननं घोरमसिजिह्वं दुरासदम् ॥ 6-14-10(39144)
अनर्हं पुरुषव्याघ्रं ह्रीमन्तमपराजितम् ।
पातयामास कौन्तेयः कथं तमजितं युधि ॥ 6-14-11(39145)
उग्रधन्वानमुग्रेषुं वर्तमानं रथोत्तमे ।
परेषामुत्तमाङ्गानि प्रचिन्वन्तमथेषुभिः ॥ 6-14-12(39146)
पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यतमाहवे ।
कालाग्निमिव दुर्धर्षं समचेष्टत नित्यशः ॥ 6-14-13(39147)
परिकृष्य स सेनां तु दशरात्रमनीकहा ।
दगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् ॥ 6-14-14(39148)
यः स शक्र इवाक्षय्यं वर्षं शरमयं क्षिपन् ।
जघान युधि योधानामर्बुदं दशभिर्दिनैः ॥ 6-14-15(39149)
स शेते निहतो भूमौ वातभुग्न इव द्रुमः ।
मम दुर्मन्त्रितेनाजौ यथा नार्हति भारतः ॥ 6-14-16(39150)
कथं शान्तनवं दृष्ट्वा पाण्डवानामनीकिनी ।
प्रहर्तुमशकत्तत्र भीष्मं भीमपराक्रमम् ॥ 6-14-17(39151)
कथं भीष्मेण संग्रामं प्राकुर्वन्पाण्डुनन्दनाः।
कथं च नाजयद्भीष्मो द्रोणे जीवति सञ्जय ॥ 6-14-18(39152)
कृपे सन्निहिते तत्र भरद्वाजात्मजे तथा।
भीष्मः प्रहरतां श्रेष्ठः कथं स निधनं गतः ॥ 6-14-19(39153)
कथं चातिरथस्तेन पाञ्चाल्येन शिखण्डिना।
भीष्मो विनिहतो युद्धे देवैरपि दुरासदः ॥ 6-14-20(39154)
यः स्पर्धते रणे नित्यं जामदग्न्यं महाबलम् ।
अजितं जामदग्न्येन शक्रतुल्यपराक्रमम् ॥ 6-14-21(39155)
तं हतं समरे भीष्मं महारथकुलोदितम् ।
सञ्जयाचक्ष्व मे वीरं येन शर्म न विद्महे ॥ 6-14-22(39156)
मामकाः के महेष्वासा नाजहुः सञ्जयाच्युतम् ।
दुर्योधनसमादिष्टाः के वीराः पर्यवारयन् ॥ 6-14-23(39157)
यच्छिखण्डिमुखाः सर्वे पाण्डवा भीष्ममभ्ययुः ।
कच्चित्ते कुरवः सर्वे नाजहुः सञ्जयाच्युतम् ॥ 6-14-24(39158)
अश्मसारमयं नूनं हृदयं मुदृढं मम।
यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते ॥ 6-14-25(39159)
यस्मिन्सत्यं च मेधा च नीतिश्च भरतर्षभे ।
अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि ॥ 6-14-26(39160)
मौर्वीघोषस्तनयुत्नुः पृषत्कपृषतो महान् ।
धनुर्ह्रादमहाशब्दो महामेघ इवोन्नतः ॥ 6-14-27(39161)
योऽभ्यवर्षत कौन्तेयान्सपाञ्चालान्ससृञ्जयान्।
निघ्नन्परथान्वीरो दानवानिव वज्रभृत् ॥ 6-14-28(39162)
इष्वस्त्रसागरं घोरं बाणग्रहं दुरासदम् ।
कार्मुकोर्मिणमक्षय्यमद्वीपं चलमप्लवम् ॥ 6-14-29(39163)
गदासिमकरावासं हयावर्त्तं गजाकुलम् ।
पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिःस्वनम् ॥ 6-14-30(39164)
हयान्गजपदातींश्च रथांश्च तरसा बहून् ।
निमञ्जयन्तं समरे परवीरापहारिणम् ॥ 6-14-31(39165)
विदह्यमानं कोपेन तेजसा च परंतपम् ।
वेलेव मकरावासं के वीराः पर्यवारयन् ॥ 6-14-32(39166)
भीष्मो यदकरोत्कर्म समरे सञ्जयारिहा ।
दुर्योधनहितार्थाय के तस्यास्य पुरोऽभवन् ॥ 6-14-33(39167)
के रक्षन्दक्षिणं चक्रं भीष्मस्यामिततेजसः ।
पृष्ठतः के परान्वीरानपासेधन्यतव्रताः ॥ 6-14-34(39168)
के पुरस्तादवर्तन्त रक्षन्तो भीष्ममन्तिके।
के रक्षन्नुत्तरं चक्रं वीरा वीरकस्य युध्यतः ॥ 6-14-35(39169)
वामे चक्रे वर्तमानाः केऽघ्नन्सञ्जय सृञ्जयान्।
अग्नतोऽग्न्यमनीकेषु केऽभ्यरक्षन्दुरासदम् ॥ 6-14-36(39170)
पार्श्वतः केऽभ्यरक्षन्त गच्छन्तो दुर्गमां गतिम्।
समूहे के परान्वीरान्प्रत्ययुध्यन्त सञ्जय ॥ 6-14-37(39171)
रक्ष्यमाणः कथं वीरैर्गोप्यमानाश्च तेन ते।
दुर्जयानामनीकानि नाजयंस्तरसा युधि ॥ 6-14-38(39172)
सर्वलोकेश्वरस्येव परमस्य प्रजापतेः।
कथं प्रहर्तुमपि ते शेकुः सञ्जय पाण्डवाः ॥ 6-14-39(39173)
यस्मिन्द्वीपे समाश्वस्य युध्यन्ते कुरवः परैः ।
तं निमग्नं नरव्याघ्रं भीष्मं शंससि सञ्जय ॥ 6-14-40(39174)
यस्य वीर्यं समाश्रित्य मम पुत्रो बृहद्बलः ।
न पाण्डवानगणयत्कथं स निहतः परैः ॥ 6-14-41(39175)
यः पुरा विबुधैः सर्वैः सहाये युद्धदुर्मदः ।
काङ्क्षितो दानवान्ध्नद्भिः पिता मम महाव्रतः ॥ 6-14-42(39176)
यस्मिज्जाते महावीर्ये शान्तनुर्लोकविश्रुतः ।
शोकं दैन्यं च दुःस्वं च प्राजहात्स च तत्क्षणे ॥ 6-14-43(39177)
प्रोक्तं परायणं प्राज्ञं स्वधर्मनिरतं शुचिम्।
वेदवेदाङ्गतत्वज्ञं कथं शंससि मे हतम् ॥ 6-14-44(39178)
सर्वास्त्रविनयोपेतं शान्तं दान्तं मनस्विनम्।
हतं शान्तनवं श्रुत्वा मन्ये शेषं हतं बलम् ॥ 6-14-45(39179)
धर्मादधर्मो बलवान्संप्राप्त इति मे मतिः ।
यत्र वृद्धं गुरुं हत्वा राज्यमिच्छन्ति पाण्डवाः ॥ 6-14-46(39180)
जामदग्न्यः पुरा रामः सर्वास्त्रविदनुत्तमः ।
अम्बार्थमुद्यतः सङ्ख्ये भीष्मेण युधि निर्जितः ॥ 6-14-47(39181)
तमिन्द्रसमकर्माणं ककुदं सर्वधन्विनाम्।
हतं शंससि मे भीष्मं किं नु दुःखमतः परम् ॥ 6-14-48(39182)
असकृत्क्षत्रियव्राताः सङ्ख्ये येन विनिर्जिताः ।
जामदग्न्येन वीरेण परवीरनिघातिना।
न हतो यो महाबुद्धिः स हतोऽद्य शिखण्डिना ॥ 6-14-49(39183)
तस्मान्नूनं महावीर्याद्भार्गवाद्युद्धदुर्मदात्।
तेजोवीर्यबलैर्यूयाञ्शिखण्डी द्रुपदात्मजः ॥ 6-14-50(39184)
यः शूरं कृतिनं युद्धे सर्वशस्त्रविशारदम्।
परमास्त्रविदं वीरं जघान भग्तर्षभम् ॥ 6-14-51(39185)
के वीरास्तममित्रघ्नमन्वयुः शस्त्रसंसदि ।
शंस मे तद्यथा चासीद्युद्भं भीष्मस्य पाण्डवैः ॥ 6-14-52(39186)
योषेव हतवीरा मे सेन्म पुत्रस्य सञ्जय ।
अगोपमिव चोद्भ्रान्तं गोकुलं तद्बलं मम ॥ 6-14-53(39187)
पौरुषं सर्वलोकस्य परं यस्मिन्महाहवे।
परासक्ते च वस्तस्मिन्कथमासीन्मनस्तदा ॥ 6-14-54(39188)
जीवितेऽप्यद्य सामर्थ्यं किमिवास्मासु सञ्जय।
घातयित्वा महावीर्यं पितरं लोकधार्मिकम् ॥ 6-14-55(39189)
अगाधे सलिले मग्नां नावं दृष्ट्वेव पारगाः ।
भीष्मे हते भृशं दुःखान्मन्ये शोचन्ति पुत्रकाः ॥ 6-14-56(39190)
अद्रिसारमयं नूनं हृदयं मम सञ्जय।
यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते ॥ 6-14-57(39191)
यस्मिन्नस्त्राणि मेधा च नीतिश्च पुरुषर्षभे।
अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि ॥ 6-14-58(39192)
न चास्त्रेण न शौर्येण तपसा मेधया न च।
न धृत्या न पुनस्त्यागान्मृत्योः कश्चिद्विमुच्यते ॥ 6-14-59(39193)
कालो नूनं महावीर्यः सर्वलोकदुरत्ययः ।
यत्र शान्तनवं भीष्मं हतं शंससि सञ्जय ॥ 6-14-60(39194)
पुत्रशोकाभिसंतप्तो महद्दुःखमचिन्तयन् ।
आशंसेऽहं परं त्राणं भीष्माच्छान्तनुनन्दनात् ॥ 6-14-61(39195)
यदादित्यमिवापश्यत्पतितं भ्रुवि सञ्जय ।
दुर्योधनः शान्तनवं किं तदा प्रत्यपद्मत ॥ 6-14-62(39196)
नाहं स्वेषां परेषां वा बुद्ध्या सञ्जय चिन्तयन् ।
शेषं किंचित्प्रपश्यामि प्रत्यनीके महीक्षिताम् ॥ 6-14-63(39197)
दारुणः क्षत्रधर्मोऽयमृषिभिः संप्रदर्शितः ।
यत्र शान्तनवं हत्वा राज्यमिच्छन्ति पाण्डवाः ॥ 6-14-64(39198)
वयं वा राज्यमिच्छामो घातयित्वा महाव्रतम्।
क्षत्रधर्मे स्थिताः पार्था नापराध्यन्ति पुत्रकाः ॥ 6-14-65(39199)
एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय ।
पराक्रमः पराशक्तिस्तत्तु तस्मिन्प्रतिष्ठितम् ॥ 6-14-66(39200)
अनीकानि विनिघ्नन्तं ह्रीमन्तमपराजितम् ।
कथं शान्तनवं तातं पाण्डुपुत्रा न्यवारयन् ॥ 6-14-67(39201)
यथायुक्तान्यनीकानि कथं युद्धं महात्मभिः।
कथं वा निहतो भीष्मः पिता सञ्जय मे परैः ॥ 6-14-68(39202)
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः ।
दुःशासनश्च कितवो हते भीष्मे किमब्रुवन् ॥ 6-14-69(39203)
यच्छरीरैरुपास्तीर्णां नरवारणवाजिनाम् ।
शरशक्तिमहाखङ्गतोमराक्षां महाभयाम्।
प्राविशन्कितवा मन्दाः सभां युद्धदुरासदाम् ॥ 6-14-70(39204)
प्राणद्यूते प्रतिभये केऽदीव्यन्त नरर्षभाः ।
के जीयन्ते जितास्तत्र कृतलक्ष्या निपातिताः ।
अन्ये भीष्माच्चान्तनवात्तन्ममाचक्ष्व सञ्जय ॥ 6-14-71(39205)
न हि मे शान्तिरस्तीह श्रुत्वा देवव्रतं हतम्।
पितरं भीमकर्माणं भीष्ममाहवशोभिनम् ॥ 6-14-72(39206)
आर्तिं मे हृदये रूढां महतीं पुत्रहानिजाम्।
त्वं हि मे सर्पिषेवाग्निमुद्दीपयसि सञ्जय ॥ 6-14-73(39207)
महान्तं भारमुद्यम्य विश्रुतं सार्वलौकिकम्।
दृष्ट्वा विनिहतं भीष्मं मन्ये शोचन्ति पुत्रकाः ॥ 6-14-74(39208)
श्रोष्यामि तानि दुःखानि दुर्योधनकृतान्यहम् ।
तस्मान्मे सर्वमाचक्ष्व यद्वृत्तं तत्र सञ्जय ॥ 6-14-75(39209)
यद्वृत्तं तत्र संग्रामे मन्दस्याबुद्धिसंभवम् ।
अपनीतं सुनीतं यत्तन्ममाचक्ष्व सञ्जय ॥ 6-14-76(39210)
यत्कृतं तत्र संग्रामे भीष्मेण जयमिच्छता ।
तेजोयुक्तं कृतास्त्रेण शंस तच्चाप्यशेषतः ॥ 6-14-77(39211)
यथा तदभवद्युद्धं कुरुपाण्डवसेनयोः ।
क्रमेण येन यस्मिंश्च काले यच्च यथाऽभवत् ॥ ॥ 6-14-78(39212)

इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि चतुर्दशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes
6-14-1 अस्य त्वमन्तिके स्थित्वा सर्वं दृष्टवानसीति शेषः ॥ 6-14-12 प्रचिन्वन्तं पुष्पवदाददानम् ॥ 6-14-13 समचेष्टत म्रियमाणपशुवद्धस्तपादविक्षेपं कृतवत् ॥ 6-14-23 अजुस्त्यक्तवन्तः ॥ 6-14-27 मौर्वीघोषेण स्तनयित्नुर्गर्जन्मेघ इव । पृषत्कपृषतो बाणबिन्दुः ॥ 6-14-34 अपासेधन् न्यवारयन् ॥ 6-14-44 प्रोक्त लोके ख्याढम् ॥ 6-14-45 सर्वास्त्रविनयोपेतं सर्वास्त्रशिक्षायुक्तम् ॥ 6-14-54 परासक्ते परलोकप्रिये ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.